________________
गोचर्मलक्षणं पृथिवीदामफलञ्चवर्णनम् । १६११ फालकृष्टां महीं दत्त्वा सबीजां शस्यशालिनीम् । यावत् सूर्यकरा लोकास्तावत् स्वर्गे महीयते ॥६ यत्किचित् कुरुते पापं पुरुषो वृत्तिकर्शितः। अपि गोचर्ममात्रेण भूमिदानेन शुध्यति ॥७ दशहस्तेन दण्डेन त्रिंशदण्डानि वर्त्तनम् । दश तान्येव विस्तारो गोचमें तन्महाफलम् ॥८ सवृषं गोसहलं च यत्र तिष्ठत्यतन्द्रितम् ।
बालवत्सप्रसूतानां तद् गोचर्म इतिस्मृतम् ।। विप्राय दद्याच गुणान्विताय तपोवियुक्ताय जितेन्द्रियाय । यावन्मही तिष्ठति सागरान्ता तावत् फलं तस्य भवेदनन्तम् ॥१०
यथा वीजानि रोहन्ति प्रकीर्णानि महीतले । एवं कामाः प्ररोहन्ति भूमिदानसमार्जिताः॥११ यथाप्सु पतितः सद्य स्तैलविन्दुः प्रसर्पति । एवं भूमिकृतं दानं सश्ये सश्ये प्ररोहति ॥१२ अन्नदाः सुखिनो नित्यं वसदश्चैव रूपवान् ॥१३ स नरः सर्वदो भूप यो ददाति वसुन्धराम् । यथा गौर्भरते वत्सं क्षारमुत्सृज्य क्षीरिणी ॥१४ एवं दत्ता सहस्राक्ष ! भूमिर्भरति भूमिदम् । शङ्ख भद्रासनं छत्रं चरस्थावरवारणाः ॥१५ भूमिदानस्य पुण्यानि फलं स्वर्गः पुरन्दर !। - आदित्यो वरुणो वहिब्रह्मा सोमो हुताशनः ।।१६.,