________________
ॐ तत्सद्ब्रह्मणे नमः।
अथ ॥ बृहस्पतिस्मृतिः॥
......०००......
श्रीगणेशाय नमः । तत्रादौससुवर्णपृथिवीदानफलमहत्ववर्णनम् । इष्ट्रा क्रतुशतं राजा समाप्तवरदक्षिणम् । मघवान् ! वाग्विदां श्रेष्ठं पर्यपृच्छद् बृहस्पतिम् ॥१ भगवन् केन दानेन सर्वतः सुखमेधते । . यहत्तं यन्महाघं च तन्मे ब्रूहि महातप !॥२ एवमिन्द्रेण पृष्टोऽसौ देवदेवपुरोहितः । वाचस्पतिर्महापाझो बृहस्पतिरुवाच ह ॥३ सुवर्णदानं गोदानं भूमिदानं च वासव !। एतत् प्रयच्छमानस्तु सर्वपापैः प्रमुच्यते ॥४. सुवर्ण रजतं वस्त्रं मणिरत्नं च वासव !। सर्वमेव भवेदत्तं वसुधा यः प्रयच्छति ॥५