________________
१६०४ . औशनसस्मृतिः। [नवमो
चाण्डालकूपभाण्डेषु यदज्ञानात् पिबेजलम् । चरेत् सान्तपनं कृच्छू ब्राह्मणः पापशोधनम् ।।४८ चाण्डालेन च संस्पृष्टं पीत्वा वारि द्विजोत्तमः। त्रिरागेण विशुध्येत पञ्चगव्येन शुध्यति । महापातकसंस्पर्श भुक्वा स्नात्वा द्विजोत्तमः। बुद्धिपूर्वन्तु मूढात्मा तप्तकच्छू समाचरेत् ।।५० अन्यजातिविवाहे च स महापातकी भवेत् । तस्य पातकिसंसर्गात्पातकित्वमवाप्नुयात् ॥५१ चतुर्विशतिकृच्छू स्याद् विवाहे त्वन्यकम्यया । संसर्गस्य तदद्ध स्यात् प्रायश्चित्तं सुतेन हि ॥५२ दृष्टा महापातकिनं चाण्डालं वा रजस्वलाम् । प्रमादादोजनं कृत्वा त्रिरात्रेण विशुध्यति ॥५३ स्नानाद्रों यदि भुञ्जीत अहोराण शुध्यति । बुद्धिपूर्व तु कृच्छ्रेण भगवानाह पद्मजः॥५४ शुष्कं पर्युषितादीनि गन्धादिप्रतिदूषितम् । भुक्वोपवासं कुर्वीत चरेद्विप्रः पुनः पुनः॥५५ अज्ञानाद् भुक्तिशुध्यर्थ मज्ञानस्य विशेषतः । भृत्यानां यजनं कृत्वा परेषामन्यकर्मणि ॥५६ अभिचारमनहं च त्रिभिः कृच्छ्र विशुध्यति। ब्राह्मणाभिहतानाश्च कृत्वा दाहादिकं द्विजः ॥५७ गोमूत्रयावकाहारः प्राजापत्येन शुध्यति । तैलाभ्यक्तः प्रभाते च कुर्यान्मूत्रपुरीषके ॥५८