________________
ऽध्यायः] प्रायश्चिक भक्ष्यवर्णनम्। १६०३
गर्भिण्या वा विवत्सायाः पीत्वा दुग्धमिदं चरेत् । एतेषाश्च विकाराणि पीत्वा मोहेन वा पुनः ॥३७ गोमूत्रयावकाहारो सप्तरात्रेण शुध्यति। .. भुक्त्वा चैव नवश्राद्धं सूतके मृतकेऽथवा ॥३८ चान्द्रायणेन शुध्येत ब्राह्मणस्तु समाहितः। यस्य यद्भूयते नित्यं न यस्यागं न दीयते ॥३६ चान्द्रायणं चरेत् सम्यक् तस्यान्नप्राशने द्विजः। अभोज्यानान्तु सर्वेषां भुक्त्वा चानमुपस्कृतम् ॥४० अन्त्यस्यात्ययिनोऽन्नश्च तप्तकच्छमुदाहृतम्।। चाण्डालान्नं द्विजो भुक्त्वा सम्यक् चान्द्रायणं चरेत् । अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पर्शमेव च । पुनःसंस्कारमर्हन्ति त्रयो वर्णा द्विजातयः॥४२ क्रव्यादानां पक्षिणाञ्च प्राश्य मूत्रपुरीषकम् । महासान्तपनं कुर्यात्तेषां मोहाद् द्विजातयः॥४३ भासमण्डूककुक्कुरवायसे कच्छमाचरेत् । प्राजापत्येन शुध्येत ब्राह्मणः क्लिष्टभोजनात् ॥४४ क्षत्रिय स्तप्तकृच्छं स्याद् वैश्य श्चैव त्रिकृच्छ्रकम् । सुराभाण्डोदकं वापि पीत्वा चान्द्रायणं चरेत् ।।४५ शुनोच्छिष्टं द्विजो भुक्त्वा त्रिरात्रोण विशुध्यति । गोमूत्रयावकाहारः पीतशेषश्च वा पयः ॥४६ आपो मूत्रपुरीषाद्यै रुपेताः प्राशयेद्यदि । तदा सान्तपनं कुर्याद् व्रतं कायविशोधनम् ।।४७ . १०१