________________
[नवमो.
१६०२
औशनसस्मृतिः जलौकं जालपातञ्च जग्ध्वा ह्येतद् व्रतञ्चरेत् । शिशुमारं तथा माषं मत्स्यं मांसं तथैव च ॥२६ जग्ध्वा चैव वराहश्च एतदेव व्रतञ्चरेत् । कोकिलं चैव मत्स्यादं मण्डूकं भुजगं तथा ॥२७ गोमूत्रयावकाहारैर्मासेनकेन शुध्यति । जलेचरांश्च जलजान्यातुधानविपाषितान् ॥२८ रक्तपादास्तथा जग्ध्वा सप्ताहं चैतदाचरेत् । मृतमांसं वृथा चैवमात्माथं वा यथाकृतम् ॥२६ भुक्ता मासश्चरेदेतत्तत्पापस्यापनुत्तये । कपोतं कुञ्जरं शिघुकुमकुटं रजकां तथा ॥३० प्राजापत्यं चरेबम्ध्वा तथा कुम्मीरमेव च। पलाण्डं लानञ्चैव मुक्ता चान्द्रायणं चरेत् ॥३१ वार्ताकुंतण्डुलीयं च प्राजापत्येन शुध्यति । अश्मातकं तथोपेतं तच्छृण शुध्यति ॥३२ प्राजापत्येन शुद्धिः स्यात्ककुभ्यां शशभक्षणे । अलाबु गृञ्जनं चैव भुक्ताऽप्येतद् व्रतं चरेत् ॥३३ उदुम्बरञ्च कामेन तप्तकृच्छेण शुष्यति । वृथा कृसरसंयावं पायसाऽपूपशष्कुलीन् ॥३४ भुक्ता चैवं व्रतं तत्र त्रिरात्रेण विशुध्यति । पीत्वा क्षीराण्यपेयानि ब्रह्मचारी विशेषतः ॥३५ गोमूत्रयावकाहारो मासार्धेन विशुध्यति । अनिर्दशाया गोः क्षीरं माहिषं वाक्षमेव च ॥३६