SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] प्रायश्चित्तवर्णनम् । १६०१ पुष्पागमानाञ्च तथा घृतप्राशो विशोधनम्। चान्द्रायणं पराकञ्च कुर्य्यात् हत्वा प्रमादतः ॥१५ मतिपूर्व बधे चास्याः प्रायश्चित्तं न विद्यते । मनुष्याणाञ्च हरणं स्त्रीणां कृत्वा ग्रहस्य च ॥१६ वापीकूपजलानाञ्च शुध्येञ्चान्द्रायणेन तु।। द्रव्यागामल्पसाराणां स्तेयं कृत्वाऽन्यवेश्मनः ॥१७ चरेत् सन्तापनं कृच्छं चरित्वाऽऽत्मविशुद्धये । धान्यादिधनचौयं च पञ्चगव्यविशोधनम् ॥१८ तृणकाष्ठद्वमाणाञ्च पुष्पाणाञ्च बलस्य च । चेलचर्मामिषाणाञ्च त्रिरात्रं स्यादभोजनम् ॥१६ मणिप्रवालरत्नानां सुवर्णरजतस्य च । अयः कास्योपलानाञ्च द्वादशाहमभोजनम् ॥२० एतदेव व्रतं कुर्याद् द्विशफैकशफस्य च ।। पक्षिणामोषधीनाञ्च हरेश्चापि त्र्यहं पयः ॥२१ न मांसानां हतानान्तु दैवे चान्द्रायणं चरेत् । उपोष्य द्वादशाहं तु कुष्माण्डैर्जुहुयाद् घृतम् ।।२२ नकुलोलूकमार्जारं जग्ध्वा सान्तपनं चरेत् । श्वानं जग्ध्वाऽथ कृच्छण शुभःण च शुध्यति ॥२३ प्रकुर्याच्चैव संस्कारं पूर्वेणैव विधानतः । शललञ्च बलाकञ्च हंसं कारण्डवं तथा ।।२४ चक्रवाकञ्च जग्ध्वा च द्वादशाहमभोजनम् । कपोतं टिट्टिभं भासं शुकं सारसमेव च ॥२५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy