________________
१५६६
ऽध्यायः]
प्रायश्चिचवर्णनम्। पाण्मासिकेऽथ संसर्गे प्रायश्चित्तार्थमाचरेत् । एभिः पूतै रथो हन्ति महापातकिनो मलम् ॥२१ पुण्यतीर्थाभिगमनात् पृथिव्यामथ निष्कृतिः। ब्रह्महत्यां सुरापानं स्तेयं गुर्वङ्गनागमम् ।।२२ , कृत्वा चैवं महापापं ब्राह्मणः काममोहितः। कुर्यादनशनं विप्रः पुण्यतीर्थे समाहितः॥२३ जले वा प्रविशेदग्नौ ध्यात्वा देवं कपर्दिनम् । न बन्या दुष्कृतिहष्टा मुनिभिः कर्मवेदिभिः ॥२४
इत्यौशनसस्मृतौ अष्टमोऽध्यायः ।
-
॥ अथ नवमोऽध्यायः ॥
प्रायश्चित्तवर्णनम्। गत्वा दुहितरं विप्रं स्वसारं सा स्नुषामपि । प्रविशेज्ज्वलनं दीप्तं मतिपूर्वमिति स्थितिः ॥१ मातृष्वसां मातुलानी तथैव च पितृष्वसाम् । भागिनेयीं समारुह्य कुर्यात् कृच्छ्रादिपूर्वकम् ॥२ चान्द्रायणानि चत्वारि पञ्च वा सुसमाहितः। पैतृष्वनेयीं गत्वा तु स्वस्त्रियां मातुरेव च ॥३ मातुलस्य सुतां वाऽपि गत्वा चान्द्रायणं चरेत् । भार्या सखी समारुह्य गत्वा श्याली तथैव च ।।४