________________
भ्यायः]
प्रायश्चित्तवर्णनम् । दत्त्वा चान्नं स विदुषे ब्रह्महत्या व्यपोहति । अश्वमेधावभृतके स्नात्वा यः शुध्यति द्विजः ॥१० सर्वस्वं वा वेदविदे ब्राह्मणाय प्रदापयेत् । ब्रह्महा मुच्यते पापैदृष्ट्वा वा सेतुदर्शनम् ॥११ सुरापस्तु सुरां तप्तामग्निवर्णां पिबेत्तदा । निर्दग्धकायः स तदा मुच्यते च द्विजोत्तमः ॥१२ गोमूत्रमग्निवर्ण वा गोशकृद्रवमेव वा । पयो घृतं जलं वाऽथ मुच्यते पापकात्ततः ॥१३ जलावासाः प्रयतो ध्यात्वा नारायणं हरिम् । ब्रह्महत्यानतं चाथ चरेत्तत्पापशान्तये ॥१४ स्वर्णस्तेयी सद्विप्रो राजानमधिगम्य तु। . स्वकर्म ख्यापयन् ब्रूयान्मां भवाननुशास्त्विति ॥१५ गृहीत्वा मुसलं राजा सकृद्धन्यात्तु तं स्वयम् । स वै पापात्ततः स्तेनो ब्राह्मणस्तपसाथ वा ॥१६ करेणादाय मुसलं लगुडं वाऽथ घातिनम् । सश्चित्योभयतस्तीक्ष्णमायसं दण्डमेव च ॥१७ राजा न स्तेन मर्दीत मुक्तकेशेन धावता । अचक्षाणश्च तत्पापमेवं कर्माणि शाधि माम् ॥१८ शासनाद्वापि मोक्षाद्वा ततः स्तेयाद्विमुच्यते । अशासित्वा च तं राजा स्तेयस्याप्नोति किल्विषम् ॥१६ तपसा द्रुतमन्यस्य सुवर्णस्तेयजं फलम्। चीरवासा द्विजोऽरण्ये सञ्चरेद् ब्रह्मणो व्रतम् ॥२०