________________
१५६६
औशनसस्मृतिः।
[अष्टमो
॥ अष्टमोऽध्यायः ॥
अथ प्रायश्चित्तप्रकरणवर्णनम् । ब्रह्महा मद्यपः स्तेनो गुरुपल्पग एव च । महापातकिनस्त्वेते यः स तैः सह सम्वसेत् ॥१ सम्वत्सरेण पतति संसर्ग कुरुते तु यः। यो हि शय्यासने नित्यं वसन्वै पतितं भवेत् ।।२ याजनं योनिसम्बन्धं तथैवाध्ययनं द्विजः। कृत्वा सद्यः पतेत् ज्ञानात् सहभोजनमेव च ॥३ . अविज्ञायापि यो मोहात् कुर्यादध्ययनं द्विजः। सम्वत्सरेण पतति सहाध्ययनमेव च ॥४ ब्रह्महा वा दशाब्दानि कुण्ठीकृत्वा वने वसेत् । भैक्ष्यं चात्मविशुध्यथं कृत्वा शवशिरोध्वजम् ॥५ ब्रह्मणावसथान् सर्वान् देवागाराणि वर्जयेत् । विनिन्द्य च स्वमात्मानं ब्राह्मणश्च स्वयं स्मरेत् ॥६ असङ्कराणि योग्यानि सप्तागाराणि संविशेत् । विघूमे शनकैनित्यं व्याहारे भुक्तवर्जिते ॥७ कुर्यादनशनं वाद्यं भृगोः पतनमेव च । ज्वलन्तं वा विशेदग्नि जलं वा प्रविशेत् स्वयम् ॥८ ब्राह्मणार्थे गवार्थे वा सम्यक् प्राणान् परित्यजेत् । दीर्घमामयिनं विप्रं कृत्वा नामयिनं तथा ॥६