________________
ऽध्यायः ] गृहस्थानां प्रेतकर्मविधिवर्णनम् । १५६३
सत्रिणो प्रतिनस्तावत् सद्यः शौचमुदाहृतम् । राजा चैवाभिषिक्त प्राणसत्रिण एव च ॥५७ यज्ञे विवाहकाले च देवयागे तथैव च । सद्यः शौचं समाख्यातं दुर्भिक्षे वाप्युपद्रवे ॥५८ विषाद्युपहतानाभ्व विद्युता पार्थिवैर्द्विजैः । सद्यः शौचं समाख्यातं सर्पादिमरणेऽपि च ॥५६ अरुप्रपतने विषौधान्यपराशने । गोब्राह्मणान्ते सन्न्यस्ते सद्यः शौचं विधीयते ॥ ६० नैष्ठिकानां वनस्थानां यतीनां ब्रह्मचारिणाम् । नाशौचं विद्यते सद्भिः पतिते च तथा मृते ॥ ६१ इत्यौशनसस्मृतौ षष्ठोऽध्यायः ।
॥ अथ सप्तमोऽध्यायः ॥
अथ गृहस्थानां प्रेतकर्मविधि वर्णनम् । पतितानां न दाहः स्यान्नान्त्येष्टिर्नास्थिसञ्चयः । न चाश्रुपातः पिण्डे च कार्यं श्राद्धादिकं कचित् ॥ १ व्यापादयेत्तथात्मानं स्वयं योऽग्निविषादिभिः । सहितं तस्य नाशौचं नचस्यादुदकादिकम् ॥२ अथ कश्चित्प्रमादेन म्रियतेऽग्निविषादिभिः । तस्याशौचं विधातव्यं कार्यञ्चैवोदकादिकम् ३