SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ [षष्ठो १५६२ औशनसस्मृतिः। अन्यथा चैव स ज्योतिर्ब्राह्मणे मानमेव च । अनस्थिसश्चिते विप्रे ब्राह्मणो रौति चेत्तदा ॥४७ मानेनैव भवेच्छुद्धिः सचैलेन न संशयः। यस्तैः सहान्नं कुर्याश्च यानादीनि तु चैव हि ॥४८ ब्राह्मणे वाऽपरे वाऽपि दशाहेन विशुध्यति । यस्तेषामन्नमश्नाति स तु देवोऽपि कामतः॥४६ तदाशौचनिवृत्तषु स्नानं कृत्वा विशुध्यति । यावचदनमश्नाति दुर्भिक्षाभिहतो नरः । तावन्त्यहान्यशुद्धिः स्यात् प्रायश्चित्तं ततश्चरेत् ।।५० दाहायशौचं कर्तव्यं द्विजानामनिहोत्रिणाम् । सपिण्डानां तु मरणे मरणादितरेषु च ॥५१ सपिण्डता च पुरुषे सप्तमे विनिवत्तते । समानोदकभावस्तु जन्मनाम्नोर वेदने ॥५२ पिता पितामहश्चैव तथैव प्रपितामहः । लेपभाजस्तु यश्चात्मा सापिण्ड्यं सप्तपौरुषम् ॥५३ उानाब्वैव सापिण्ड्य माह देवः प्रजापतिः। ये चैकजाता बहवो भिन्नयोनय एव च ॥५४ भिन्नवर्णास्तु सापिण्ड्यं भवेत्तेषां त्रिपूरुषम् । कारवः शिल्पिनो वैद्यदासीदासास्तथैव च ॥५५ राजानो राजभृत्याश्च सद्यः शौचाः प्रकीर्तिताः। दातारो नियमी चैव ब्रह्मविद् ब्रह्मचारिणी ॥५६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy