________________
१५६१
ऽध्यायः]
अशौचवर्णनम् । राजन्यवैश्यावप्येवं हीनवर्णासु योनिषु । षड्रानं वा त्रिरात्रं वाऽप्येकरात्रक्रमेण हि ॥३६ वैश्यक्षत्रियविप्राणां शूद्रैश्चाशौचमेव तु । अर्द्ध मासोऽथ षड्रात्र त्रिरात्रं द्विजपुङ्गवाः !॥३७ शूद्रक्षत्रियविप्राणां शूद्रेष्वशौचमिष्यते । षडानं द्वादशाहञ्च विप्राणां वैश्यशूद्रयोः॥३८ अशौचं क्षत्रिये प्रोक्तं क्रमेण द्विजपुङ्गवः!। शूद्रविक्षत्रियाणान्तु ब्राह्मणे संस्थिते यदि ॥३६ दशरात्रेण शुद्धिः स्यादित्याह कमलोद्भवः । असपिण्डं द्विजप्रेतं विप्रो निस्सृत्य बन्धुवत् ॥४० अशित्वा च सहोषित्वा दशराण शुध्यति । यदि निर्दहति क्षिप्रं प्रलोभात् क्रान्तमानसः॥४१ दशाहेन द्विजः शुध्येत् द्वादशाहेन भूमिपः। अर्द्ध मासेन वैश्यस्तु शूद्रो मासेन शुध्यति ॥४२ षडाणाथवा सप्तत्रिरात्रेणाथवा पुनः। अनाथञ्चैव निबन्धुं ब्राह्मणं धनवर्जितम् ॥४३ स्नात्वा सम्प्राश्य तु घृतं शुध्यन्ति ब्राह्मणादयः । अपरश्चेत्परं वर्णमपरश्वापरो यदि ॥४४ ।। एकाहात् क्षत्रिये शुद्धिवैश्ये तु स्यात् द्वयहे सति । शूद्रेषु च व्यहं प्रोक्तं प्राणायामशतं पुनः ॥४५ अनस्थिसञ्चिते शूद्रे रौति चेद् ब्राह्मणः स्वकैः। त्रिरात्रं स्यात्तथाऽशौचमेकाहं क्षत्रवैश्ययोः॥४५