________________
१५६०
औशनसस्मृतिः ।
सपिण्डानां त्रिरात्रं स्यात् संस्कारो भर्तुरेव च । अहस्त्वदत्तकन्यानामशौचं मरणे स्मृतम् ॥ २५ द्विवष जन्ममरणे सद्यः शौचमुदाहृतम् । आदन्तात् सोदरः सत्य आचौलादेकरात्रकम् ॥२६ आव्रतानां त्रिरात्रं स्याद्दशमन्तु ततः परम् । मातामहानां मरणे त्रिरागं स्यादशौचकम् ॥२७ एकोदराणां विज्ञेयं सूतके चैतदेव हि । पक्षिणी योनिसम्बन्धे बान्धवेषु तथैव च ॥ २८ एकरा समुद्दिष्टं गुरौ सब्रह्मचारिणि । प्रेते राजनि सद्यस्तु यस्य स्याद्विषये स्थितः ||२६ गृहे मृतासु दत्तासु कन्यकासु त्र्यहं पितुः । परपूर्वासु भार्यासु पुत्रेषु कुलजेषु च ॥३० त्रिरागं स्यात्तथाचार्ये भार्यासु प्रत्यगासु च । आत्रार्यपुत्रपत्न्योश्च अहोरात्रमुदाहृतम् ॥३१ एकरात्रमुपाध्याये तथैव श्रोत्रियेषु च । एकरात्रं सपिण्डेषु स्वगृहे संस्थितेषु च ॥३२ त्रिरात्रं श्वश्रुमरणे श्वशुरे तथैव च । सद्यः शौचं समुद्दिष्टं सगोत्रे संस्थिते सति ॥३३ शुध्येत् द्विजो दशाहेन द्वादशाहेन भूपतिः । वैश्यः पच्चदशाहेन शूद्रो मासेन शुध्यति ॥३४ क्षत्रविट् शूद्रदायादा ये स्युर्विप्रस्य सेवकाः । तेषाभशेषं विप्रस्य दशाहात् शुद्धिरिष्यते ||३५
[ षष्ठो