SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] अशौचवर्णनम्। १५८६ जातमात्रस्य वा तस्य यदि स्यान्मरणं पितुः। मातुश्च सूतकाति स्यात् पिताऽस्य स्पृश्य एव हि ॥१४ सद्यः शौचं सपिण्डानां कर्त्तव्यं सोदरस्य तु । ऊध्वं दशाहादेकाहं सोदरो यदि निर्गुणः ॥१५ अथोवं दन्तजन्म स्यात् सपिण्डानामशौचकम् । एकरात्रं निर्गुणानाञ्चौलादूवं त्रिरात्रिकम् १६ आदन्तजातमरणं सम्भवेद्यदि सत्तमाः!। एकरात्रं सपिण्डानां यदि चात्यन्तनिर्गुणः ॥१७ व्रतादेशात् सपिण्डानां गर्भस्रावाच पाततः । गर्भच्युतावहोरात्रं सपिण्डेऽत्यन्तनिर्गुणे ॥१८ यथेष्टाचरणाद्द्वातौ त्रिरात्रादिति निर्णयः । सूतके यदि सूतिश्च मरणे वा गतिर्भवेत् ॥१६ शेषेणैव भवेच्छुद्धिरहः शेषे द्विरात्रकम् । मरणोत्पत्तियोगे तु मरणेन समाप्यते ॥२० अर्द्धवृतिमनाशौच मूर्ध्वमन्येन शुद्धयति । देशान्तरगतः श्रुत्वा सूतकं शाव एव वा ॥२१ तावदप्रयतोऽन्ये वा यावच्छेषः समाप्यते । अतीते सूतके प्रोक्तं सपिण्डानां त्रिरात्रकम् ।।२२ तथैव मरणे स्नानमूध्वं संवत्सराद् व्रती। वेदांश्च यस्त्वधीयानो न भवेत् वृत्तिकर्शितः ॥२३ सद्यः शौचं भवेत्तस्य सर्वावस्थासु सर्वदा । स्त्रीणामसंस्कृतानान्तु प्रदानात् परतः पितुः।२४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy