SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ [सप्तमो १५६४ औशनसस्मृतिः। जाते कुमारे तदह आमं कुर्यात् प्रतिग्रहम् । हिरण्यधान्यगोवासस्तिलानगुड़सर्पिषः ॥४ फलानीक्षुश्च शाकञ्च लवणं काष्ठमेव च । तायं दधि घृतं तैलमौषधं क्षीरमेव च ॥५ आशौचिनो गृहात् ग्राह्यं शुष्कान्नव्चैव नित्यशः। अहिताग्निर्यथान्यायं दातव्यं त्रिभिरग्निभिः॥६ अनाहिताग्निगुह्येण लौकिकेनेतरैर्द्विजैः । देहाभावात् पलाशेन कृत्वा प्रतिकृतिं पुनः॥७ दाहः कार्यों यथान्यायं सपिण्डैः श्रद्धयान्वितैः । 'सकृत्प्रसिञ्चे दुदकं नाम गोत्रेण वाग्यतः ॥८ दशाह बान्धवैः साद्धं सर्वे चैवावाससः । पिण्डं प्रतिदिनं दद्युः सायं प्रातर्यथाविधि ॥६ प्रेताय च गृहद्वारि चतुरो भोजयेद् द्विजान् । द्वितीयेऽहनि कर्तव्यं क्षुरकर्म सबान्धवैः॥१० सर्वैरस्थ्ना सञ्चयनं ज्ञातिरेव भवेत्तथा । त्रिपूर्व भोजयेद्विप्रानयुग्मान् श्रद्धया शुचीन् ॥११ पञ्चमे नवमे चैव तथैवैकादशेऽहनि । अयुग्मान् भोजयेद्विप्रान् नवश्राद्धं तु तद्विदुः ॥१२ एकादशेहि कुर्वीत प्रेतमुद्दिश्य भावतः। द्वादशे वाथ कर्तव्य मग्निदेस्त्वथवाऽहनि ॥१३ एक पवित्र मेकं वा पिण्डमात्रं तथैव च । एवं मृतेऽहि कर्तव्यं प्रतिमासन्तु वत्सरम् ॥१४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy