________________
आशौचप्रकरणवर्णनम् ।
दर्भाश्च परितः स्थाप्या स्तदा स भोजयेद् द्विजान् । नान्दीमुखाश्च पितरः प्रीयन्तामिति वाचयेत् । मातृश्राद्धं तु पूर्वं स्यात् पितॄणां तदनन्तरम् ॥ ततो मातामहानाञ्च वृद्धौ श्राद्धत्रयं स्मृतम् । देवपूर्वं प्रदद्याद् वै न कुर्यादप्रदक्षिणम् ॥६६ प्राङ्मुखो निर्वपेत् पिण्डानुपवीती समाहितः । स्थण्डिलेषु विचित्रेषु प्रतिमासु द्विजातिषु ॥६७ पुष्पैर्घपैश्च नैवेद्यैर्भूषणैरपि पूज्य च । पूजयित्वा मातृगणं कुर्याच्छ्राद्धत्रयं बुधः ॥६८ अकृत्वा मातृयागश्च यः श्राद्धं परिवेषयेत् । तस्य क्रोधसमाविष्टा हिंसामिच्छन्ति मातरः ॥६६
इत्यौशन सस्मृतौ पञ्चमोऽध्यायः ।
ऽध्यायः ]
॥ अथ षष्ठोऽध्यायः ॥
अथाशौचप्रकरणवर्णनम् ।
दशाहं प्राहुराशौचं सपिण्डेषु विपश्चितः । मृतेऽथवाथ जातेषु ब्राह्मणानां द्विजोत्तमाः ! ॥१ नित्यानि चैव कर्माणि काम्यानि च विशेषतः । न कुर्यादहितं किचित् स्वाध्यायं मनसापि च ॥२ १००
१५८७