________________
ऽध्यायः] श्राद्धप्रकरणवर्णनम् । १५८१
प्राश्येदग्नौ तदन्नन्तु दद्याच्च ब्रह्मचारिणे । भिक्षुको ब्रह्मचारीव भोजनार्थमुपस्थितः ॥२६ उपविष्टेषु यच्छ्राद्ध कामन्तमपि भोजयेत् । अतिथि यंत्र नाश्नाति न तच्छाद्ध प्रकाश्यते ॥३० तस्मात् प्रयत्नात्तीर्थेषु पूज्या अतिथयो द्विजैः । अतीर्य रमते श्राद्ध भुञ्जते ये द्विजातयः॥३१ काकयोनि व्रजन्त्येते दत्त्वा चैव न संशयः । हीनाङ्गः पतितः कुष्ठी वणिक्पुक्कसनासिकः ॥३२ कुक्कुटः शूकरश्वानो वाः श्राद्ध षु दूरतः । वीभत्समशुचिं म्लेच्छं न स्पृशेञ्च रजस्वलाम् ॥३३ नीलकाषायवसनं पाषण्डांश्च विवर्जयेत् । यत् तत्र क्रियते कर्म पैतृकं ब्राह्मणान् प्रति ॥३४ तत्सर्वमेव कर्त्तव्यं वैश्वदेवस्य पूजनम् । यथोपविष्टान् सर्वांस्तानलकुर्याद्विभूषणैः ॥३५ या दिव्या इति मन्त्रेण हस्तेत्वध्यं विनिक्षिपेत् । प्रदद्याद् गन्धमाल्यानि धूपादीनि च शक्तितः ॥३६ अपसव्यं ततः कृत्वा पितृणां दक्षिणामुखः। आवाहनं ततः कुर्यादुशन्तस्त्वेत्यूचा बुधः ।।३७ आवाह्य तदनुज्ञातो जपेदायान्तु न स्ततः। शन्नो देव्युदकं पाने तिलोऽसीति विलास्तथा ॥३८ क्षिप्त्वा चाध्य तथा पूर्व दत्त्वा हस्तेषु वै पुनः । संस्रावांश्च ततः सर्वान् पात्रीकुर्यात् समाहितः ॥३६