SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ १५७६ ऽध्यायः] श्राद्धप्रकरणवर्णनम्। आमन्त्रयित्वा यो मोहादन्यं वा मन्त्रयेत् द्विजः। स तस्मादधिकः पापी विष्ठाकीटो हि जायते ॥८ श्राद्ध निमन्त्रितो विप्रो मैथुनं योऽधिगच्छति । ब्रह्महत्यामवाप्नोति तियग्योनिषु जायते ॥ निमन्त्रितश्च यो विप्रो ह्यध्वानं याति दुर्मतिः । भवन्ति पितरस्तस्य तन्मासं पांशुभोजनम् ॥१० निमन्त्रितश्च यः श्राद्ध प्रकुर्यात्कलहं द्विजः। . भवन्ति तस्य तन्मासं पितरो मलभोजनाः ॥११ तस्मान्निमन्त्रितः श्राद्ध नियतात्मा भवेद् द्विजः। अक्रोधनः शौचपरः कर्ता चैव जितेन्द्रियः॥१२ शोभते दक्षिणां गत्वा दिशं दर्भात् समाहितः। समूलान्नाहरेद्वारि दक्षिणायान् सुनिर्मलान् ॥१३ दक्षिणाप्रवणं स्निग्धं विभक्तशुभलक्षणम् । शुचि देशं विविक्तञ्च गोमयेनोपलेपयेत् ॥१४ नदीतीरेषु तीर्थेषु स्वभूमौ गिरिसानुषु । विविक्तेषु च तुष्यन्ति दत्तेन पितरस्तथा ॥१५ परस्य भूमिभागे तु पितृणां वै न निर्वपेत्। स्वामित्वात् स विहन्येत मोहाद्यक्रियते नरैः॥१६ अटव्यः पर्वताः पुण्या रतीर्थान्यायतनानि च । सर्वाण्यस्वामिकान्याहु नहि तेषु परिग्रहः ॥१७ तिलांश्चावकिरेत्तत्र सर्वतो बन्धयेद् द्विजः । असुरोपहतं सर्व तिलैः शुष्यत्यजेन वा ॥१८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy