________________
चतुर्थो
१५७८
औशनसस्मृतिः। बहुनात्र किमुक्तेन विहितान्येव कुर्वते । निन्दितान्याचरन्ते ते वाः श्राद्ध प्रयत्नतः ॥३६
इत्यौशनसस्मृतौ चतुर्थोऽध्यायः।
॥ अथ पञ्चमोऽध्यायः ॥
श्राद्धप्रकरणवर्णनम्। गोमयेनोदकैः पूर्व शोधयित्वा समाहितः।। सन्निपात्य द्विजान् सर्वान् साधुभिः सन्निमन्त्रयेत् ॥१ श्वो भविष्यति मे श्राद्धं पूर्वेधुरभिवक्ष्यति ॥२ असम्भवे परेर्वा यथोक्तैर्लक्षणयुतम् । तस्य ते पितरः श्रुत्वा श्राद्धकाल उपस्थिते ॥३ अन्योन्यमनसा ध्यात्वा सम्पतन्ति मनोजवाः । ब्राह्मणास्ते समायान्ति पितरो ह्यन्तरिक्षगाः ॥४ वायुभूताश्च तिष्ठन्ति भुक्त्वा यान्ति पराङ्गतिम् । आमन्त्रिताश्च ये विप्राः श्राद्धकाल उपस्थिते ॥५ वसेरन्नियताः सर्वे ब्रह्मचर्यपरायणाः । अक्रोधनोऽत्वरो यत्र सत्यवादी समाहितः॥६ भरमैथुनमध्वानं श्राद्धभुग्वजयेजपम् । आमन्त्रितो ब्राह्मणो वै योऽन्यस्मै कुरुते क्षणम् ॥७