SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] श्राद्धप्रकरणवर्णनम् । कापालिकाः पाशुपताः पाषण्डाश्चैव तद्विधाः। यस्याश्नन्ति हवींष्येते दुरात्मानस्तु तामसाः ।।२५ न तस्या सद्भवेत् श्राद्धं प्रेत्यापि हि फलप्रदाः । अनाश्रमी यो द्विजः स्यादाश्रमी स्यान्निरर्थकः ॥२६ मिथ्याश्रमी च विप्रेन्द्रा विज्ञेयाः पङ्क्तिदूषकाः। दुश्चर्मी कुनखी कुष्ठी श्वित्री च श्यावदन्तकः ॥२७ ऋरो वीजनकश्चैव स्तेनः क्लीबोऽथ नास्तिकः। मद्यपी वृषली सक्तो वीरहा दीधिषूपतिः ॥२८ आगारदाही कुण्डाशी सोमविक्रयिणो द्विजाः । परिवेत्ता तथा हिंस्रः परिवेत्तिनिराकृतिः ॥२६ पौनर्भवः कुसीदी च तथा नक्षत्रदर्शकः । गीतवादिवशीलश्च व्याधितः काण एव च ॥३० हीनाङ्गश्वातिरिक्ताङ्गो हवकीणी तथैव च । कन्याद्रोही कुण्डगोली अभिशक्तोऽथ देवलः ॥३१ मित्रघ्र क् पिशुनश्चैव नित्यं नार्या निकृन्तनः । मातापितगुरुत्यागी दारत्यागी तथैव च ॥३२ अनपत्यः कूटसाक्षी पाचकोरगजीवकः । समुद्रयायी कृतहा रथ्यासमयभेदकः ॥३३ वेदनिन्दारतश्चैव देवनिन्दारतस्तथा । द्विजनिन्दारतश्चैव ते वाः श्राद्धकर्मषु ॥३४ कृतघ्नः पिशुनः क्रूरो नास्तिको वेदनिन्दकः । मित्रघ्नः पारदार्यश्च मिथ्यापण्डितदूषकः ॥३५
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy