________________
अध्यायः] श्राद्धप्रकरणवर्णनम्। १५०५
ये सोमपाननिरता धर्मज्ञा सत्यवादिनः। अतिनो नियमस्थाश्च ऋतुकालाभिगामिनः ॥३ पञ्चाग्निरप्यधीयानो यजुर्वेदविदोऽपि च । . बहवस्तु सुवर्णाश्च त्रिमधुर्वाथ वा भवेत् ॥४ त्रीनाविकेन च्छन्दो वै ज्येष्ठसामगणोऽपि वा। अथर्वशिरसोऽध्येता रुद्राध्याय्या विशेषतः ॥५ अमिहोत्रपरो विद्वान् पापविञ्च षडङ्गवित् । गुरुदेवामिपूजासु प्रसक्तो ज्ञानतत्परः॥६ अहिंसोपरता नित्यमप्रतिग्राहिणस्तथा। सत्रिणो दाननिरता ब्राह्मणाः पतितपावनाः ।।७ असमानप्रवरगा असगोत्रास्तथैव च । असम्बन्धश्च विज्ञेयो ब्राह्मणः पतितपावनः॥८ भोजयेद्योगिनं पूर्व तत्त्वज्ञानरतं परम् । अलाभे नैष्ठिकं दान्तमुपकुर्वाणकं तु वा ॥8 तदलाभे गृहस्थस्तु मुमुक्षुः सङ्गवर्जितः। सर्वालामे साधकं वा गृहस्थं मा विभोजयेत् ॥१० प्रकृतेगुणतत्त्वज्ञं योऽश्नातीह यतिं भवे । पलं वेदविदां तस्य सहस्रादतिरिच्यते ॥११ तस्माद्यनेन योगीन्द्रमीश्वरज्ञानतत्परम् । भोजयेद्धव्यकव्येषु अलाभादिह च द्विजान् ।।१२ एष वै प्रथमः कल्पः प्रदाने हव्यकव्ययोः । अनुकल्पः स्वयं ज्ञेय स्तदा सद्भिरनुच्छितः ॥१३