SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ १५७२ औशनसस्मृतिः। तृतीयोअपूपश्च हिरण्यं च गामश्वं पृथिवीं तिलान् । अविद्वान् प्रतिगृह्णानो भस्मी भवति काष्ठवत् ॥१२१ मासमारोहणं कुर्यात् भर्तृचित्यां पतिव्रता। तन्मृताहनि संप्राप्ते पृथक् पिण्डे नियोजयेत् ॥१२२ धर्मपिण्डोदकं श्राद्धं पार्वणं नमसंज्ञकम् । अस्थिसञ्चयनं कर्म दशाहभवनं तथा ॥१२३ औध्वं दशाहमुत्कर्षे शेषस्य यदि वा भवेत् । पिण्डोदकं नवश्राद्धं पुनः कार्य यथाविधि ॥१२४ यद्यस्थिसञ्चयं कर्म दशाहमूर्ध्वभाक् भवेत् । नष्टे वापहृतेऽस्थीनि दाहयेद्यदि वा पुनः॥१२५ कुर्यादहरहः श्राद्धं प्रमीतपितृको द्विजः। सानिकोऽग्निको वापि तीर्थे वेषविशेषतः ॥१२६ उत्तानं वा विवत्तं वा पितृपात्रं यदा भवेत् । अभोज्यं तद्भवेदन्नं क्रुद्धः पितृगणैश्च तैः ॥१२७ अन्नहीनं क्रियाहीनं मन्त्रहीनं तु यद्भवेत् । सर्वमच्छिद्रमित्युक्त्वा ततो यत्नेन भोजयेत् ॥१२८ एकोद्दिष्टन्तु विशेयं वृद्धिश्राद्ध तु पार्वणम् । एतत्पञ्चविधं श्राद्धं भृगुपुत्रेण सूचितम् ॥१२६ यात्रायां षष्ठमाख्यातं तत्प्रयत्नेन पावनम् । शुद्धयेत् सप्तमं श्राद्धं ब्रह्मणा परीकर्तितम् ॥१३० दैविकं चाष्टमं श्राद्धं यत् कृत्वा मुच्यते भयात् । सन्ध्याराग्यो न कर्तव्यमहोरात्रमदर्शनात् ॥१३१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy