SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ नैमित्तिकश्राद्धविधिवर्णनम् । पिण्डान्वाहार्यकं श्राद्धौं क्षीणे राजनि शस्यते । अपराह्न े द्विजातीनां प्रशस्तेन ! मिषेण तु ॥ ११० प्रतिपत्प्रभृतिर्ह्यन्यास्तिथयः कृष्णपक्षके । चतुर्दशीं वर्जयित्वा पञ्चमीं ह्युत्तरोत्तराम् ॥ १११ अमावस्याष्टकास्तिस्रः पौर्णमास्यादिषु त्रिषु । तिस्रश्चाप्यष्टकाः पुण्या मासि पञ्चदशी तथा ॥ ११२ त्रयोदशी मघा कृष्णावर्षासु त्वविशेषतः । नैमित्तिकं तु कर्तव्यं दिवसे चन्द्रसूर्य्ययोः बालकानां च मरणे नारकी स्यात्ततोऽन्यथा । काम्यानि चैव श्राद्धानि शस्यन्ते ग्रहणादिषु ॥११४ अयने त्रिषुवे चैव व्यतिपाते त्वनन्तकम् । संक्रान्त्यामक्षयं श्राद्धं तथा जन्मदिनेष्वपि ॥ ११५ नक्षत्र तिथिवारेषु कार्य्यं काम्यं विशेषतः । स्वर्गं तु लभते कृत्वा कृत्तिकासु द्विजोत्तमाः ! ॥ ११६ द्रव्यब्राह्मणसम्पत्तौ न कालं नियमं ततः । कर्मारम्भेषु सर्वेषु कुर्यादभ्युदयं ततः ॥ ११७ पुत्रजन्मादिषु श्राद्धं पार्वणं पावणं स्मृतम् । अहन्यहनि नित्यं स्यात् काम्ये नैमित्तिकं पुनः ॥ ११८ सन्निकृष्टमतिक्रम्य श्रोत्रियं यः प्रयच्छति । ऽध्यायः ] स तेन कम्मणा पापी दहत्यासप्तमं कुलम् ॥ ११६ यदिस्यादधिको विप्रः शीलविद्यादिभिः स्वयम् । तस्मै यत्नेन दातव्यमतिक्रम्यापि सन्निधिम् ॥ १२० 8 १५७१
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy