SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ १५६८ औशनसस्मृतिः। [तृतीयोएष धर्मः समासेन कीर्तितो ब्रह्मचारिणः । ब्रह्मणाभिहितः पूर्वमृषीणां भावितात्मनाम् ।।७६ योऽन्यत्र कुरुते यत्नमनधीत्य श्रुतिं द्विजः। . स वै मूढो न सम्भाष्यो वेदवाह्यो द्विजातिभिः ॥८० न वेदपाठमाण सन्तुष्टो वै द्विजोत्तमः । पाठमात्रावसानस्तु पङ्क गौरिव सीदति ॥८१ . योऽधीत्य विधिवद्वेदं वेदान्तं न विचारयेत् । स सान्वयः शूद्रकल्पः स पाद्यं न प्रपद्यते ॥८२ यदि वा व्यन्तिकं वासं कर्तुमिच्छति वै गुरौ । युक्तः परिचरेदेनमाशरीरविमोक्षणात् ॥८३ गत्वा वनं वा विधिवज्जुहुयाजातवेदसम् । अधीयीत सदा नित्यं ब्रह्मविद्यां समाहितः।।८४ सावित्रीं शतरुद्रीयं वेदानां च विशेषतः। अभ्यसेत्सततं वेदं भस्मस्नानपरायणः ।।८५ वेदं वेदौ तथा वेदाः वेदान्वै चतुरो द्विज !। अधीत्य विधिगम्याथ ततः स्नायाद् द्विजोत्तमः ।।८६ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः । अकुर्वाणः पतत्याशु निरयानतिभीषणान् ।।८७ अभ्यसेत्प्रयतो वेदं महायज्ञान हापयेत् । कुर्याद् गृह्याणि कर्माणि सन्ध्योपासनमेव च ॥८८ नित्यं स्वाध्यायशीलः स्यान्नित्यं यज्ञोपवीतकः। सत्यवादी जितक्रोधो ब्रह्मभूयाय कल्पते ॥
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy