________________
ऽध्यायः] ब्रह्मचारिप्रकरणेऽनेकविचारवर्णनम्। . १५६७
धावकोऽनुलिसस्य स्नेहोगाधस्य लिष्ठति । विप्रस्याविदुषो देहे तावद् ब्रह्म न कीर्तयेत् ॥६८ शयानः प्रौढपादश्च कृत्वा वै वावसत्थिकाम् । नाधीयीतामिषञ्जग्ध्वा सूतकान्नाद्यमेव च ॥६६ नीहारैर्बाणशब्दश्च सन्ध्ययोरुभयोरपि । अमावास्यां चतुर्दश्यां पौर्णमास्यष्टमीषु च ॥७० उपाकर्मणि चोत्सर्गे त्रिरात्रं क्षपणं स्मृतम् । अष्टकासु च कुर्वीत मतिमान् तासु रात्रिषु ॥७१ ।। मार्गशीर्षे तथा पौषे माघे मासे तथैव च । तिस्रोष्टकाः समाख्याता कृष्णे पक्षे च सूरिभिः ॥७२ श्लेष्मातकस्य छायायां शाल्मलेर्मधुकस्य च। कदाचिदपि नाध्येयं कोविदारकपित्थयोः ॥७३ समानविधेनुमते तथा सब्रह्मचारिणि । आचार्य संस्थिते वाऽपि त्रिरात्रं क्षपणं स्मृतम् ॥७४ छिद्रेष्वेतेषु विप्राणामनन्यायाः प्रकीर्तिताः। हिंसन्ति राक्षसास्ते च तस्मादेतान् विसर्जयेत् ।।७५ नैत्यके नास्त्यनन्यायः सन्ध्योपासन एव च । उपाकर्मणि कर्मान्ते होममन्तोषु चैव हि ॥७६ एकार्चमथवैकं वा यजुः सामाथवा पुनः। अष्टकायाः स्वधीयत मारुते चापि वापदि ।।७७ अनध्यायो विनाशे च नेतिहासपुराणयोः । निधर्मशास्त्रष्वन्येषु पर्वण्येतान् विसर्जयेत् ।।७८