________________
१५६६
औशनसस्मृतिः। [स्वीयोमाघे वा मासि संप्राप्ते पूर्वाहे प्रथमेऽहनि । छन्दांस्यूलमधीयीत शुक्लपक्षे तु वै द्विजाः! ॥५७ वेदाङ्गानि पुराणं वा कृष्णपक्षे तु मानवः। इमन्नित्यमनव्यायानधीयानो विसर्जयेत् ॥५८ अध्यापन कुर्वाणो अध्येस्यन्नपि यत्नतः। कर्माधुरे दिवारात्रौ दिवावासं समूहने ॥५६ विद्युत्स्वनितवर्षासु महोल्कानाच पातने। आकस्मिकमनध्यायमेतेष्वेव प्रजापतिः ॥६० एता न स्युर्दिता नाद्यान्यदप्राग्दुष्कृतादिषु । तदा विन्द्यादनाय मन्यते जाप्रदर्शने ॥६१ निर्घाते वाऽथ चलने ज्योतिषां चोपसर्पणे । एतानकालिकान् विन्द्यादनायागतावपि ॥६२ प्राग्दुष्कृतेष्वमिषु च विद्युत्स्तनितनिस्वने। सद्यो हि स्यादनध्यायमनृतं मुनिरब्रवीत् ॥६३ निध्याय एवं स्याद् ग्रामेऽरण्येषु नगरेषु च । कर्मनैपुण्यगामानां पूतिगन्धे च नित्यशः॥६४ अन्त्यानां सङ्गते ग्रामे वृषलस्य च सन्निधौ । अनध्यायो निन्द्यमाने समवाये जनस्य च ॥६५ उदये मध्यरात्रौ च विण्मूो च विसर्जयेत् । उच्छिष्टश्राद्धभुक् चैव मनसा न विचिन्तयेत् ॥६६ प्रतिगृह्य द्विजो विद्यादेकोदिष्टस्य केतनम् । तदाह कीर्तयेद् ब्रह्म राज्ञो राहोश्च सूतके ॥६७