SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] ब्रह्मचारि प्रकरणे गायत्रीमन्त्रसारवर्णनम् । १५६५ गायत्रीमप्यधीयीत गत्वारण्यं समाहितः । सहस्रपरमां देवीं शतमध्या दशापराम् ॥४६ गायत्रीं वै जपेन्नित्यं जपश्च त्रिः प्रकीर्तितः । गायत्रीं चैव वेदांश्च तुलया तुलयन् प्रभुः ॥४७ एकतश्चतुरो वेदान् गायत्री च तथैकतः । ओङ्कारमादितः कृत्वा व्याहृतीस्तदनन्तरम् ।।४८ ततोऽधीयीत एकाग्रं श्रिया परमयान्वितः। अध्यापयेत्तु एकाग्रं गायत्री परया तु या ॥४६ पुराकल्पे समुत्पन्ना भूर्भुवः स्वर्गनामतः । महाव्याहृतयस्तिस्रः सर्वाशुभनिबर्हणाः ॥५० प्रधानं पुरुषः कालो ब्रह्मविष्णुमहेश्वराः। सत्यं रजस्तमस्तिस्रः कामा व्याहृतयस्त्रयः ॥५१ ओङ्कारस्तत्परं ब्रह्म गायत्री स्यात्तदक्षरम् । एवं मन्त्रो महायोगः साक्षात्सार उदाहृतः॥५२ योऽधीतेऽहन्यमाने तां गायत्री वेदमातरम् ।। विज्ञायाथं ब्रह्मचारी स याति परमाङ्गतिम् ॥५३.. न गायत्र्याः परं जप्यमेतद्विज्ञानमुच्यते । श्रवणस्य तु मासस्य पौर्णमास्यां द्विजोत्तमाः !॥५४ आषाढ्यां प्रौष्ठपद्यां वा वेदोपक्रमणं स्मृतम् । उत्सृज्य प्रामनगरं मासान्वितोऽर्थपञ्चमान् ।।५५ अधीयीत शुचौ देशे ब्रह्मचारी समाहितः। पुष्ये तु छन्दसां कुर्याद्वहिरुत्सर्जनं द्विजाः ॥५६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy