SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ . १५६२ औशनसस्मृतिः। [तृतीयोआसने शयने पाने न च तिष्ठेत्कथयन। . धावन्तमनुधावेत गच्छन्त मनुगच्छति ॥१३ गजोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च । नासीत गुरुणा साद्ध शिलाफलतलेषु च ॥१४ जितेन्द्रियः स्यात् सततं वश्यात्माऽक्रोधनः शुचिः। प्रयुञ्जीत सदा वाचं मधुरां हितभाषिणीम् ।।१५ गण्डमाल्या रसं कन्यां सूक्ष्मप्राणिविहिंसनम् । अभ्यङ्गश्चाञ्जनोपानच्छत्रधारणमेव च ॥१६ कामं क्रोधं भयं निद्रां गीतवादित्रनर्त्तनम् । धूतं जनपरीवादं स्त्रीप्रेक्षालापनं तथा ॥१७ परोपतापपैशुन्यं प्रयत्नेन विवर्जयेत् । उदकुम्भं सुमनसो गोशकृन्मृत्तिका कुशान् ॥१८ आहरेद्यावदन्यानि भैक्षञ्चाहरहश्चरेत् । तथैव लवणं सर्व भक्ष्यं पर्युषितं नयेत् ॥१६ अनन्यदर्शी सततं भवेद्गीतादिनिः स्पृहः । नादर्शञ्चैव वीक्षेत न चरेद्दन्तधावनम् ॥२० एकान्तमशुचिः स्त्रीभिः शूद्राद्यैरभिभाषणम् । गुरूच्छिष्टं भेषजार्थ न प्रयुञ्जीत कामतः ॥२१ मलापकर्षणं सानन्नाचरेद् वै कदाचन । नचातिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ।।२२ विद्यागुरुष्वेतदेव नित्यवृत्तिः स्वयोनिषु । प्रतिषेधत्सु वा धर्म हितं चोपदिशन् स्वयम् ।।२३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy