SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] ब्रह्मचारिणां धर्मसारवर्णनम् । वेदयज्ञादिहीनानां प्रशस्तानां स्वकर्मसु । ब्रह्मचारी चरेद्भक्षं गृहस्थः प्रयतोऽन्वहम् ॥५५ गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अभावेऽप्यथ गेहानां पूर्व पूर्व विवर्जयेत् ॥५६ सर्व वापि चरेद् प्रामं पूर्वोक्तानामसम्भवे । नियम्य प्रयतो वाचं दिशश्चानवलोकयन् ।।५७ समाहृत्य तु तद्भक्षं यावदर्थमिहाज्ञया। भुञ्जीत प्रयतो नित्यं वाग्यतो नान्यमानसः॥५८ भैक्षेण वर्तयेन्नित्यं कामनाशीर्भवेद् व्रती । भैक्षेण वृत्तिनो वृत्तिरुपवाससमं स्मृता ॥५६ पूजयेदशनं नित्यमद्यादन्नमकुत्सयन् । दृष्टा हृष्येत्प्रसीदेच प्रतिनन्देश्च सर्वतः ॥६० अनारोग्यमनायुष्यमस्वयं कुत्सभोजनम् । अपुण्यं लोकविद्विष्टं तस्मात्तत्परिवर्जयेत् ॥६१ प्राक्मुखोऽन्नानि भुञ्जीत दक्षिणामुख एव वा । नाद्यादुदङ्मुखो नित्यं विधिपूर्व सनातने ॥६२ प्रक्ष्याल्य पाणिपादौ च भुञ्जानो द्विरुपस्पृशेत् । शुचौ देशे समासीनो भुक्त्वान्ते द्विरुपस्पृशेत् ॥६३ मण्डलं पूर्वतः कृत्वा तत्र स्थाप्याथ भोजयेत् । स्वप्राणाहुतिपर्यन्तं मौनमेव विधीयते ॥५४ इत्यौशनसस्मृतौ प्रथमोऽध्यायः ।
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy