SearchBrowseAboutContactDonate
Page Preview
Page 421
Loading...
Download File
Download File
Page Text
________________ १५५६ औशनसस्मृतिः। द्वितीयो ॥अथ द्वितीयोऽध्यायः॥ अथ ब्रह्मचारिप्रकरणे शौचाचारवर्णनम् । भुक्ता पीत्वा च स्नात्वा च तथा रथ्योपसर्पणे। ओष्ठावलोमको स्पृष्ट्वा वासो विपरिधाय च ॥१ रेतोमूत्रपूरीषाणामुत्सर्गेणान्तभाषणे। तथा चाध्ययनारम्भे कासश्वासागमे तथा ॥२ चत्वरं वा श्मशानं वा समागम्य द्विजोत्तमः। - सन्ध्ययोरुभयोरतद्वदाचान्ते चाचमेत् पुनः॥३ चण्डालम्लेच्छसम्भाषे स्त्रीशूद्रोच्छिष्टभाषणे । उच्छिष्टं पुरुषं स्पृष्ट्वा भोज्यं वापि तथाविधम् ॥४ अश्रुपाते तथाचामे अहितस्य तथैव च । भोजयेत् सन्ध्ययोः स्नात्वा पीत्वा मूत्रपुरीषयोः ॥५ आचान्तोऽप्याचमेत् स्पृष्ट्वा सकृत् सकृदथान्यतः। अग्नेर्गवामयालम्भे स्पृष्टा प्रयत एव वा ॥६ नृणामथाश्मनः स्पर्श नीवीं विपरिधाय च । उपस्पृशेजलं शुद्ध तृणं वा भूमिमेव वा ॥७ कोशानां चात्मनः स्पर्श वाससां क्षालितस्य च । अनुष्णाभिरफेनाभिरदुष्टाभिश्च सर्वशः ॥८ शौचे च सुखमासीनः प्राङ्मुखो वाप्युदङ्मुखः । शिरःप्रावृत्य कर्ण वा मुक्तकच्छशिखोऽपिवा 18
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy