SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ १५५४ औशनसस्मृतिः। [प्रथमोअभिवाद्याश्च पूर्वन्तु शिरसावधशर्म च । ब्राह्मणक्षत्रियाद्यैश्च श्रीकामैः सादरं सदा ॥४५ नाभिवाद्यास्तु विप्राणां क्षत्रियाद्याः कथञ्चन । ज्ञानकर्मगुणोपेता यद्यप्येते बहुश्रुताः॥४६ ब्राह्मणाः सर्ववर्णानां स्वस्ति कुर्य्यादिति स्थितिः। सवर्णेऽप्यसवर्णानां कार्य्यमेवाभिवादनम् ॥४७ गुरुरग्निर्द्विजातीनां वर्णानां ब्राह्मणो गुरुः । पतिरेको गुरुः स्त्रीणां सर्वस्याभ्यागतो गुरुः ॥४८ विद्या कर्म वयो बन्धुर्वित्तं भवति यस्य वै। मान्यस्थानानि पश्चाहुः पूर्व पूर्व गुरूणि च ॥४६ पञ्चानां त्रिषु वर्णेषु भवेत्तु गुणवान् हि यः। यत्र स्यात्सोऽत्र मानाहः क्षुद्रोऽपि स भवेद् यदि ॥५० पिण्डादेभ्यो ब्राह्मणेभ्यः स्त्रियै राज्ञेऽस्य चक्षुषे । वृद्धाय भावहीनाय रोगिणे दुर्बलाय च ॥५१ भिभामाहृत्य शिष्टानां गृहेभ्यः प्रयतोऽन्वहम् । निवेद्य गुरवेऽश्नीयाद्वाग्यतस्तदनुज्ञया ॥५२ भवत्पूर्व चरेद्भक्षमुपनीतो द्विजोत्तमः । भवन्मध्यन्तु राजन्यो वैश्यस्तु भवदुत्तरम् ॥५३ मातरं वा स्वसारं वा मातुर्वा भगिनीं तथा । भिक्षेत भिक्षा प्रथमं या तु नैनं विमानयेत् । सजातीयग्रहेष्वेवं सर्ववर्णिकमेव वा । भैक्षस्याचरणं प्रोक्तं पतितादिषु वर्जितम् ॥५४
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy