________________
१५५०
औशनस्मृतिः। [प्रथमोऋषीणां शृण्वता पूर्वमुशना धर्मतत्ववित् । धर्मार्थकाममोक्षाणां कारणं पापनाशनम् ।।२ सुसमाधिहृदो यूयं शृणुध्वङ्गदतो मम । भार्गवं पितरं नत्वा उशनं धर्ममब्रवीत् ॥३ कृतोपनयनो वेदानधीयीत द्विजोत्तमः । गर्भाष्टमे व्यष्टमे वा स्वसूत्रोक्त विधानतः॥४ दण्डे च मेखलासूत्रे कृष्णाजिनधर मुनिः। भिक्षाहारो गुरुहिते वीक्षमाणो गुरोर्मुखम् ॥५ . कार्पासमुपवीतात् सन्निर्मितं ब्रह्मणा पुरा। ब्राह्मणानान्त्र्यवित् सूत्रं कौशिवादास्त्रमेव वा ॥६ सदोपवीती चैव स्यात् सदा बद्धशिखो द्विजः । अन्वथा यत्कृतं कर्म तद्भवत्या यथाक्रमम् ।।७ वसेदविकृतं वासः कासिं वा कशायकम् । तदेव परिधानीयं शुक्लमत्स्यद्रुमुत्तमम् ।।८ उत्तरीयं समाख्यातं वासः कृष्णाजिनं शुभम् । अभावे भव्यमजिनं रौरवं वा विधीयते ॥ उपवीतं वामबाहुं सव्यं वाहु समन्वितम् । उपवीतं भवेन्नित्यन्निवीतं कर्णलम्बनम् ॥१० सव्यबाहुं समुद्धृत्य दक्षिणेन धृता द्विजाः । प्राचीनावीतमित्युक्तं पित्र्ये कर्मणि धारयेत् ॥११ अग्न्यगारे गवाङ्गोष्ठे होमे जप्ये तथैव च। स्वाध्यायभोजने नित्यं ब्राह्मणानाञ्च सभिधौ ॥१२