________________
१५४६
सच्छूद्रलक्षणवर्णनम् । सच्छूद्रं तं विजानीयादसच्छद्रस्ततोऽन्यथा । चौर्यात् काकवचो ज्ञेयश्चाश्वानां तृणवाहकः ॥५० एतत् संक्षेपतः प्रोक्तं जातिवृत्तिविभागशः। जात्यन्तराणि दृश्यन्ते संकल्पादित एव तु ॥५१
इत्यौशनसं धर्मशास्त्रं समाप्तम् । शुक्र ( औशनस ) संहिता समाप्ता।
॥ अथ ॥
*॥ औशनसस्मृतिः ॥*
॥ श्रीगणेशाय नमः ॥ __...००...
॥ प्रथमोऽध्यायः ॥ अथ ब्रह्मचारिणां क्रमागतकर्तव्य वर्णनम् । शौनकाद्याश्च मुनय औशनं भार्गवं मुनिम् । नत्वा पप्रच्छुरखिलं धमशास्त्रविनिर्णयम् ॥१