SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ १५४८ औशनससंहिताः। वैश्यवृत्या तु जीवेत क्षात्रधर्म न चाचरेत् । तस्यां तस्यैव चौरेण मणिकारः प्रजायते ॥३६ मणीनां राजतां कुर्यान्मुक्तानां वेधनक्रियाम् । प्रवालानाच सूत्रित्वं शाखानां बलयक्रियाम् ॥४० शूद्रस्य विप्रसंसर्गाजात उग्र इति स्मृतः । नृपस्य दण्डधारः स्याद्दण्डं दण्ड्यषु सञ्चरेत् ॥४१ तस्यैव चौरसंवृस्या जातः शुण्डिक उच्यते । जातदुष्टान् समारोप्य शुण्डाकर्मणि योजयेत् ॥४२ शूद्रायां वैश्यसंसर्गाद्विधिना सूचकः स्मृतः । सूचकाद्विप्रकन्यायां जातस्तक्षक उच्यते ॥४३ शिल्पकर्माणि चान्यानि प्रासादलक्षणं तथा । नृपायामेव तस्यैव जातो यो मत्स्यबाधकः ॥४४ शूद्रायां वैश्यतश्चौर्यात् कटकार इति स्मृतः । वशिष्ठशापात्रेतायां केचित् पारशवास्तथा ॥४५ वैखानसेन केचित्तु केचिद्भागवतेन च । वेदशास्त्राबलम्वास्ते भविष्यन्ति कलौ युगे ॥४६ कटकारास्ततः पश्चान्नारायणगणाः स्मृताः । शाखा वैखानसेनोक्ता तन्त्रमार्गविधिक्रियाः: ॥४७ निषेकाद्याः श्मशानान्ताः क्रियाः पूजाङ्गसूचिकाः । पञ्चरात्रेण वा प्राप्तं प्रोक्तं धर्म समाचरेत् ॥४८ शूद्रादेव तु शूद्रायां जातः शूद्र इति स्मृतः। द्विजशुश्रूषणपरः पाकयज्ञपरान्वितः ।।४६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy