SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ अनुलोमप्रतिलोमजात्यन्तराणानिरूपणम् । १५४७ नृपायां विधिना विप्राजातो नृप इति स्मृतः । नृपायां नृपसंसर्गात् प्रमादाद् गूढजातकः ॥२८ सोऽपि क्षत्रिय एव स्यादभिषेके च वर्जितः। अभिषेकं विना प्राप्य गोज इत्यभिधायकः ॥२६ सर्वन्तु राजवृत्तस्य शस्यते प()दवन्दनम् । पुनर्भूकरणे राज्ञां नृपकानीन एव च ॥३० वैश्यायां विधिना विप्राज्जातो ह्यम्वष्ठ उच्यते । कृष्याजीवो भवेत्तस्य तथैवाग्नेयवृत्तिकः ॥३१ ध्वजिनी जीविका वाऽपि अम्बष्ठाः शस्त्रजीविनः । वैश्यायां विप्रतश्चौर्यात् कुम्भकारः स उच्यते ॥३२ कुलालवृत्त्या जीवेत नापिता वा भवन्त्यतः। सूतके प्रेतके वाऽपि दीक्षाकालेऽथ वापनम् ॥३३ नाभेरुद्ध्वं तु वपनं तस्मान्नापित उच्यते । कायस्थ इति जीवेत्तु विचरेच इतस्ततः ॥३४ काकालौल्यं यमात् क्रौयं स्थपतेरथ कृन्तनम् । आद्याक्षराणि संगृह्य कायस्थ इति कीर्तितः॥३५ शूद्रायां विधिना विप्राज्जातः पारशवोमतः । भद्रकादीन समाश्रित्य जीवेयुः पूजकाः स्मृताः ॥३६ शिवाद्यागमविद्याद्यैस्तथामण्ड(द)लवृत्तिभिः।। तस्यां वै चौरसो वृत्तो निषादो जात उच्यते ॥३७ वने दुष्टमृगान् हत्वा जीवनं मांसविक्रयम् । नृपाजातोऽथ वैश्यायां गृह्यायां विधिना सुतः ॥३८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy