________________
औशनससंहिता । नृपायां शूद्रसंसर्गाज्जातः पुक्कश उच्यते । सुरावृत्ति समारुह्य मधुविक्रयकर्मणा ॥१७ कृतकानां सुराणाच विक्रेता याचको भवेत् । पुकशाद्वैश्यकन्यायां जातो रजक उच्यते ॥१८ नृपायां शूद्रतश्चौर्याज्जातो रञ्जक उच्यते । बैश्यायां रखकाजातो नर्तको गायको भवेत् ॥१६ वैश्यायां शूद्रसंसर्गाज्जातो वैदेहिकः स्मृतः । अजानां पालनं कुर्यान्महिषीणां गवामपि ॥२० दधिक्षीराज्यतक्राणां विक्रयाज्जीवनं भवेत् । वैदेहिकात्तु विप्रायां जाताश्चर्मोपजीविनः ॥२१ नृपायामेव तस्यैव स्वचिकः पाचकः स्मृतः। वैश्यायां शूद्रतश्चौर्याजातश्चक्री च उच्यते ॥२२ तैलपिष्टकजीवी तु लवणं भावयन् पुनः। विधिना ब्राह्मणः प्राप्य नृपायान्तु समन्त्रकम् ॥२३ जातः सुबर्ण इत्युक्तः सानुलोमद्विजः स्मृतः। अथ वर्णक्रियां कुर्वन्नित्यनैमित्तिकी क्रियाम् ।।२४ अश्वं रथं हस्तिनं वा वाहयेद्वा नृपाज्ञया । सैनापत्यञ्च भैषज्यं कुर्याज्जीवेत्तु वृत्तिषु ॥२५ नृपायां विप्रतश्चौर्यात् संजातो यो भिषक् स्मृतः । अभिषिक्तनृपस्याज्ञां परिपाल्येत्तु वैद्यकम् ॥२६ आयुर्वेदमथाष्टाङ्ग तन्त्रोक्तं धर्ममाचरेत् । ज्योतिष गणितं वाऽपि कायिकी वृत्तिमाचरेत् ।।२७