SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ अनुलोमप्रतिलोमजात्यन्तराणांनिरूपणं, तद्धर्माभिधानच । १५४५ यानानां ये च वोढ़ारस्तेषाश्च परिचारकाः। शूद्रवृत्त्या तु जीवन्ति न क्षात्रं धर्ममाचरेत् ॥६ ब्राह्मण्यां वैश्यसंसर्गाजातोमागध उच्यते । वन्दित्वं ब्राह्मणानाञ्च क्षत्रियाणां विशेषतः ॥७ प्रशंसावृत्तिको जीवेद्वैश्यप्रेष्यकरस्तथा । . ब्राह्मण्यां शूद्रसंसर्गाजातश्चाण्डाल उच्यते ॥८ सीसमाभरणं तस्य कार्णायसमथापि वा। वधीं कण्ठे समावष्य झल्लरीं कक्षतोऽपि वा ।। मल्लापकर्षणं ग्रामे पूर्वाह्ने परिशुद्धिकम् । नापराहे प्रविष्टोऽपि वािमाञ्च नेते ॥१० पिण्डोभूता भवन्त्यत्र नोचद् बध्या विशेषतः । चाण्डालाद्वैश्यकन्यायां जातः श्वप च उच्यते ॥११ श्वमांसभक्षणं तेषां श्वान एव च तद्बलम् । नृपायां वैश्यसंसर्गादायोगव इति स्मृतः ॥१२ तन्तुवाया भवन्त्येव वसुकांस्योपजीविनः । शीलिकाः केचिदत्रैव जीवनं वस्त्रनिर्मिते ॥१३ आयोगवेन विप्रायां जातास्ताम्रोपजीविनः । तस्यैव नृपकन्यायां जातः सूनिक उच्यते ॥१४ सूनिकस्य नृपायान्तु जाता उद्वन्धकाः स्मृताः । निर्णेजयेयुर्वस्त्राणि अस्पृश्याश्च भवन्त्यतः ॥१५. नृपायां वैश्यतश्चौर्यात् पुलिन्दः परिकीर्तितः । पशुवृत्तिभवेत्तस्य हन्युस्तान् दुष्टसत्वकान् ॥१६
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy