________________
॥ अथ ॥
*॥ औशनस संहिता ॥*
श्रीगणेशाय नमः।
अथानुलोमप्रतिलोमजात्यन्तराणांनिरूपणवर्णनम् । अतः परं प्रवक्ष्यामि जातिवृत्तिविधानकम् । अनुलोमविधानञ्च प्रतिलोमबिधिं तथा ॥१ सान्तरालकसंयुक्तं सर्व संक्षिप्य चोच्यते । नृपाद् ब्राह्मणकन्यायां विवाहेषु समन्वयात् ॥२ जातः सूतोऽत्र निर्दिष्टः प्रतिलोमविधिर्द्विजः । वेदानहस्तथा चैषां धर्माणामनुबोधकः ॥३ सूताद्विप्र प्रसूतायां सूतो वेणुक उच्यते । नृपायामेव तस्यैव जातो यश्चर्मकारकः ॥४ ब्राह्मण्यां क्षत्रियाचौर्याद्रथकारः प्रजायते । वृत्तश्च शूद्रवृत्तस्य द्विजत्वं प्रतिषिध्यते ॥५