________________
१५४२ - वसिष्ठस्मृतिः।
[त्रिंशीत्रीण्याहुरतिदानानि गावः पृथ्वी सरस्वती । आदिदानं हिरण्यानां विद्यादानं ततोऽधिकम् ॥२० आत्यन्तिकफलप्रदं मोक्षसंसारमोचनम् । योगिनां संमतं विद्वानाचारमनुवर्तते ॥२१ प्रधानः शुचिर्दान्तो धारयेच्छृणुयादपि । विहाय सर्वपापानि नाकपृष्ठे महीयत, इति नाकपृष्ठे महीयत, इति ॥२२ इति वासिष्ठे धर्मशास्त्रे एकोनत्रिंशोऽध्यायः ।।
॥ अथ त्रिंशोऽध्यायः॥
अथ प्राणामिहोत्रविधिवर्णनम् । धर्मचरत माऽधर्म सत्यं वदत नानृतम् । दीर्घ पश्यत मा ह्रस्वं परं पश्यत माऽपरम् ॥१ ब्राह्मणो भवत्यग्निरग्नि ब्राह्मण इति श्रुतेः ॥२ तञ्चकथम् ॥३ तत्र सदो ब्राह्मणस्य शरीरं वेदिः संकल्पो यः पशुरात्मा रशना बुद्धिः सदो मुखमाहवनीयं नाभ्यामुदरोऽग्निर्हपत्यः प्राणोऽध्वर्युरपानो होता व्यानो ब्रह्मा समान उद्गाताऽऽत्मेन्द्रियाणि यज्ञपात्राणि य एवं विद्वानिन्द्रियैरिद्रियार्थ जुहोतीति ॥४ अपि च काठके विज्ञायते ॥५