________________
- वसिष्ठस्मृतिः। [अष्टाविंशोशतरुद्रियमथर्वशिरत्रिसुपणं महाव्रतम् । गोसूक्तं चाश्वसूक्तं च शुद्धः शुद्ध ति सामनी ॥१४ त्रीण्याज्यदोहानि रथंतरं च अग्नेर्ऋतं वामदेव्यं बृहच्च । एतानि जप्तानि पुनन्ति जन्तूञ्जातिस्मरत्वं लभते यदीच्छेत् ॥१५
अग्नेरपत्यं पथमं सुवर्ण भूवैष्णवी सूर्यसुताश्च गावः । तासामनन्तं फलमश्नुवीत यः काञ्चनं गां च महीं च दद्यात् ॥१६
उपरुन्धन्ति दातारं गौरव:कनकं क्षितिः । अश्रोत्रियस्य विप्रस्य हस्तं दृष्टा निराकृतेः॥१७ वैशाख्या पौर्णमास्यां च ब्राह्मणान्सप्त पञ्च वा । तिलान्क्षौद्रेण संयुक्तान्कृष्णान्वा यदि वेतरान् ॥१८ प्रीयतां धर्मराजेति यद्वा मनसि वर्तते। यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥१६ सुवर्णनाभं कृत्वा तु सखुरं कृष्णमार्गणम् । तिलैः प्रच्छाद्य यो दद्यात्तस्य पुण्यफलं शृणु ॥२१ ससुवर्णगुहा तेन सशैलवनकानना । चतुर्वक्तत्रा भवेदत्ता पृथिवी नात्र संशयः ॥२१ कृष्णाजिने तिलान्कृत्वा हिरण्यं मधुसर्पिषी। ददाति यस्तु विप्राय सर्वं तरति दुष्कृतमिति सर्व तरति दुष्कृतमिति ॥२२
इति वासिष्ठे,धर्मशास्त्रेष्टाविंशोऽध्यायः ।।