SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ १५३८ । वसिष्ठस्मृतिः। [अष्टाविंशोअथ चेत्त्वरते कर्तु दिवसं मारुताशनः । रात्रौ जलाशये व्युष्टः प्राजापत्येन तत्समम्॥१७ . सावित्र्यष्टसहस्रं तु जपं कृत्वोत्थिते रवी । मुच्यते पातकैः सवैयदि नो ब्रह्महा भवेत् ॥१८ यो वै स्तेनः सुरापो वा भ्रूणहा गुरुतल्पगः । धर्मशास्त्रमधीत्यैव मुच्यते सर्वपातकैः ॥१६ दुरितानां दुरिष्टानां पापानां महतां तथा । कच्छं चान्द्रायणं चैव सर्वपापप्रणाशनम् ।।२० एकैकं वर्धयेत्पिण्डं शुक्ले कृष्णे च ह्रासयेत् । अमावास्यां न भुञ्जीत एवं चान्द्रायणो विधिरेवं चान्द्रायणो विधिरिति ॥२१ इति वासिष्ठे धर्मशास्त्रे सप्तविंशोऽध्यायः॥ ॥ अथाष्टविंशोऽध्यायः॥ स्वयं विप्रतिपन्नादीनां दूषितस्त्रीणां त्यागाभावकथम् । न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा । नापोऽऽपो मूत्रपुरीषेण नाग्निदहनकर्मणा ॥१ स्वयं विप्रतिपन्ना वा यदि वा विप्रवासिता। बलात्कारोपभुक्ता वा चोरहस्तगताऽपि वा ॥२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy