________________
ऽध्यायः] .. आहारशुद्धिनिरूपणम् ।
इतिहासपुराणाभ्यां वेदं समुपद्व्हयेत् । बिभेत्यल्पश्रुताद्वेदो मामयं प्रहरिष्यति ॥६ वेदाभ्यासोऽन्वहं शक्तथा महायज्ञक्रियाक्रमः । नाशयत्याशु पापानि महापातकजान्यपि ॥७ वेदोदितं स्वकं कर्म नित्यं कुर्यादतन्द्रितः। तद्धि कुर्वन्यथाशक्या प्राप्नोति परमां गतिम् ।।८ याजनाध्यापनाद्यौनात्तथैवासत्प्रतिग्रहात् । विप्रेषु न भवेदोषो ज्वलनाकंसमो हि सः॥ शङ्कास्थाने समुत्पन्ने अभोज्याभोज्यसंज्ञके । आहारशुद्धिं वक्ष्यामि तन्मे निगदतः शृणु ॥१० अक्षारलवणां रूक्षां पिबेब्राह्मी सुवर्चलाम् । त्रिरात्रं शङ्खपुष्पं(कपी) च ब्राह्मणः पयसा सह ॥११ पालाशबिल्वपत्राणि कुशान्पद्मानुदुम्बरान् । काथयित्वा पिवेदापत्रिरात्रेणैव शुध्यति ॥१२ गोमूत्रं गोमयं क्षीरं दधिसर्पिः कुशोदकम् । एकरात्रोपवासश्च श्वपाकमपि शोधयेत् ॥१३ गोमूत्रं गोमयं चैव क्षीरं दधि घृतं तथा। पञ्चरात्रं तदाहारः पञ्चगव्येन शुध्यति ।।१४ यवान्विधिनोपयुञ्जानः प्रत्यक्षेणैव शुध्यति । विशुद्धभावे शुद्धाः स्युरशुद्ध तु सरागिणः ॥१५ हविष्यान्प्रातराशास्त्रीन्सायमाशांस्तथैव च । अयाचितं तथैव स्यादुपवासत्रयं भवेत् ॥१६