SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] साधारणपापक्षयोपायाभिधानवर्णनम्। १५३५ हविष्यन्तीयमभ्यस्य नतमंह इतीति च सूक्तं च पौरुषं जप्त्वा मुच्यते गुरुतल्पगः ॥८ अपिवाऽप्सु निमज्जानखिर्जपेदघमर्षणम् । यथाश्वमेधावभृथस्तादृशं मनुरब्रवीत् ।। आरम्भयज्ञाजपयज्ञो विशिष्टो दशभिर्गुणैः। . उपांशुः स्याच्छतगुणः सहस्रो मानसः स्मृतः ॥१० ये पाकयज्ञाश्चत्वारो विधियज्ञसमन्विताः । सर्वे ते जपयज्ञस्य कलां नार्हन्ति षोडशीम् ।।११ जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संसयः। कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते ॥१२ जापिना होमिनां चैव ध्यायिनां तीर्थवासिनाम् । न परिवसन्ति पापानि ये च स्नाताः शिरोवतः ॥१३ यथाऽनिर्वायुना धूतो हविषा चैव दीप्यते । एवं जप्यपरो नित्यं ब्राह्मणः संग्रहीष्यते ॥१४ स्वाध्यायाध्यायिनां नित्यं नित्यं च प्रयतात्मनाम् । जपतां जुह्वतां चैव विनिपातो न विद्यते ॥१५ सहस्रपरमां देवीं शतमध्यां दशावराम् । शुद्धिकामः प्रयुञ्जीत सर्वपापेष्वपि स्थितः ॥१६ क्षत्रियो बाहुवीर्येण तरेदापदमात्मनः । धनेन वैश्यशूद्रौ तु जपोंमैर्द्विजोत्तमः ।।१७ यथाऽश्वा रथहीनाः स्यू रथो वाऽश्वैर्विना यथा । एवं तपस्त्वविद्यस्य विद्या वाऽप्यतपस्विनः ।।१८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy