SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ १५३४ वसिष्ठस्मृतिः । [ षर्विशो सव्याहृतिं सप्रणवां गायत्रीं शिरसा सह । त्रिः पठेदायतप्राणः प्राणायामः स उच्यते स उच्यत इति ॥ इति वासिष्ठे धर्मशास्त्रे पथ्वविंशोऽध्यायः । sheeshestha. Prefe || अथ षडूविंशोऽध्यायः ॥ अथ साधारणपापक्षयोपायाभिधानवर्णनम् । प्राणायामान्धारयेत्त्रीन्यो यथाविध्यतन्द्रितः । अहोरात्रकृतं पापं तत्क्षणादेव नश्यति ॥ १ कर्मणा मनसा वाचा यदहा कृतमैनसम् । आसीनः पश्चिमां संध्यां प्राणायामैर्व्यपोहति ॥२ कर्मणा मनसा वाचा यद्राच्या कृतमैनसम् । उत्तिष्ठन्पूर्वसंध्यां तु प्राणायामैर्व्यपोहति ॥ ३ प्राणायामैर्य आत्मानं संयम्याssस्ते पुनः पुनः । संदध्याच्चाधिकैर्वाऽपि द्विगुणैर्वा परं तु यः ॥४ सव्याहृतिकाः सप्रणवाः प्राणायामास्तु षोडश । अपि भ्रणहनं मासात्पुनन्त्यहरहः कृताः ॥ ५ जप्त्वा कौत्समपेत्येतद्वासिष्ठं चेत्यृचं प्रति । सावित्रं शुद्धवत्यश्च शुरापोऽपि विशुध्यति ॥ ६ सकृज्जप्त्वाऽस्यवामीयं शिवसंकल्पमेव च । सुवर्णमपहृत्यापि क्षणाद्भवति निर्मलः ॥७ G
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy