SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] रहस्यप्रायश्चित्तवर्णनम्। १५३३ अहिताग्नेविनीतस्य वृद्धस्य विदुषोऽपि वा। रहस्योक्तं प्रायश्चित्तं पूर्वोक्त मितरे जनाः ॥२ प्राणायामैः पवित्रैश्च दानोंमैर्जपैस्तथा । नित्ययुक्ताः प्रमुच्यन्ते पातकेभ्यो न संशयः॥३ प्राणायामान्पवित्राणि व्याहृतीः प्रणवं तथा । पवित्रपाणिरासीनो ब्रह्म नैत्यकमभ्यसेत् ॥४ आवर्तयेत्सदा युक्तः प्राणायामान्पुनः पुनः । आलोमायान्नखानाञ्च तपस्तप्यतु उत्तमम् ॥५ निरोधाज्जायते वायुयोरग्निहि जायते । तापेनाऽऽपोऽथ जायन्ते ततोऽन्तः शुध्यते त्रिभिः॥६ न तां तोत्रेण तपसा न स्वाध्यायैर्न चेज्यया। गतिं गन्तुं द्विजाः शक्ता योगात्संप्राप्नुवन्ति याम् ॥७ योगात्संप्राप्यते ज्ञानं योगो धर्मस्य लक्षणम्। योगः परं तपो नित्यं तस्माद्युक्तः सदा भवेत् ।।८ प्रणवे नित्ययुक्तः स्याद्व्याहतीषु च सप्तसु । त्रिपदायां च गायत्र्यां न भयं विद्यते कचित्॥६ प्रणवाद्यास्तथा वेदाः प्रणवे पर्यवस्थिताः । वाढायं प्रणवः सर्व तस्मात्प्रणवमभ्यसेत् ॥१० एकाक्षरं परं ब्रह्म पावनं परमं स्मृतम् । सर्वेषामेव पापानां संकरे समुपस्थिते ॥११ . अभ्यालोदशसाहस्रः सावित्र्याः शोधनं महत् ॥१२
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy