________________
१५३२
वसिष्ठस्मृतिः। [पञ्चविंशो॥ अथ चतुर्विंशोऽध्यायः ॥
अथ कृच्छातिकृच्छ्रविधिवर्णनम् । अथातिकृच्छ्रः ॥१ त्र्यहं प्रातस्तथा सायमयाचितं पराक इति कृच्छ्रः॥२ यावत्सकृदाददीत तावदश्नीयात्पूर्वव सोऽतिकृच्छ्रः ॥३ अब्भक्षः स कृच्छातिकृच्छः॥४ कृच्छाणां व्रतरूपाणि--11५ श्मश्रुकेशान्वापयेद्धृवोऽक्षिलोमशिखावज नखानिकृत्यैकवासा अनिन्दितभोजी सकृद्भक्षमनिन्दितं त्रिषवणमुदकोपस्पर्शी दण्डी कमण्डलुः स्त्रीशूद्रसंभाषणवर्जी स्थानासनशीलोऽहस्तिष्ठेद्रात्रावासीतेत्याह भगवान्वसिष्ठः॥६ स तद्यदेतद्धर्मशास्त्रं नापुत्राय नाशिष्याय नासंवत्सरोषिताय दद्यात् ॥७ सहस्रं दक्षिणा ऋषभकादश गुरुप्रसादो वा गुरुप्रसादो वेति ।।८
इति वासिष्ठे धर्मशास्त्रे चतुर्विशोऽध्यायः।
॥ अथ पञ्चविंशोऽध्यायः ॥
रहस्यप्रायश्चित्तवर्णनम् । अविख्यापितदोषाणां पापानां महतां तथा । सर्वेषां चोपपापानां शुद्धिं वल्याम्यशेषतः ॥१