SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ ऽध्यायः] अयाज्ययाजनादि प्रायश्चित्तवर्णनम् । १५२७ वानप्रस्थो दीक्षाभेदे कृच्छं द्वादशरात्रं चरित्वा महाकक्षे(क्ष) वर्धयेत् ॥३५ भिक्षुकैर्वा (को वा )नप्रस्थवल्लोभवृद्धिवजं स्वशास्त्रसंस्कारश्च स्वशास्त्रसंस्कारश्चेति ॥३६ इति वासिष्ठे धर्मशास्त्रे एकविंशोऽध्यायः। ॥ द्वाविंशोऽध्यायः ।। अथायाज्ययाजनादि प्रायश्चित्तवर्णनम्। अथ खल्वयं पुरुषो मिथ्या व्याकरोत्ययाज्यं वा याजयति अप्रतिग्राह्यं वा प्रतिगृह्णाति अनन्नं वाऽश्नाति अनाचरणीयमेवाऽऽचरति तत्र प्रायश्चित्तं कुर्यान्न कुर्यादिति मीमांसन्ते, न कुर्यादित्याहुने हि कर्म क्षीयत इति, कुर्यादित्येव तस्माच्छ तिनिदर्शनात्तरति सर्वं पाप्मानं तरति ब्रह्महत्यां योऽश्वमेधेन यजत, इति ॥१ . वाचाऽभिशस्तो गोसवेनाग्निष्टुता यजेत ॥२ तस्य निष्क्रयणानि जपस्तपो होम उपवासो दानमुपनिषदो वेदादयो वेदान्ताः सर्वच्छन्दः संहिता मधून्यघमर्षणमथर्वशिरो रुद्राः पुरुषसूक्तं राजनि(न)रौहिणे सामनी कूष्माण्डानि पावमान्यः सावित्री चेति पावनानि ॥३
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy