________________
१५२६ __वसिष्ठस्मृतिः। [एकविंशो
त्र्यहं दिवा भुक्ते नक्तमश्नाति वै व्यहम् । त्र्यहमयाचितव्रतस्त्यहं न भुङ्क्त इति कृच्छ्रः ।।२१ त्र्यहमुष्णं पिबेदा(चा) पत्र्यहमुष्णं पयः पिबेत् । व्यहमुष्णं घृतं पीत्वा वायुभक्षः परं त्र्यहम् ॥२२ इति तप्तकृच्छ्रः ।।२३ ऋषभवेहतौ च दद्यात् ॥२४ अथाप्युदाहरन्ति ।।२५
त्रय एव पुरा रोगा ईर्ष्या अनशनं जरा। पृषद्धस्तनयं हत्वा अष्टानवतिमाहरेत् ।।२६ इति श्वमारिनकुलसर्पद१रमूषकान्हत्वा कृच्छं द्वादशरात्रं चरेकिंचिद्दयात् ॥२७ अनस्थिमतां तु सत्त्वानां गोमात्रं राशि हत्वा कृच्छं द्वादश रात्रं चरेकिंचिहयात् ।।२८. अस्थिमतां त्वेकैकम् ।।२६ योग्नीनपविध्येत्कृच्छं द्वादशरात्रं चरित्वा पुनराधानं कारयेत् ॥३० गुरोश्वालीकनिर्बन्धः सचेलं स्नातो गुरुप्रसादयेत्प्रसादात् पूतो भवतीति विज्ञायते ॥३१ नास्तिकः कृच्छं द्वादशरात्रं चरित्वाविरमेनास्तिक्यात् ॥३२ नास्तिकवृत्तिस्त्वतिकृच्छ्रम् ॥३३ एतेन सोमविक्रयी व्याख्यातः॥३४