________________
ऽध्यायः ]
गोबधाद्यनेक प्रायश्चित्तवर्णनम् ।
१५२५.
व्यवाये तु संवत्सरं घृतपटं धारयेत् ॥६
गोमयगर्ते कुशप्रस्तरे वा शयीतोध्वं संवत्सरादप्सु निमग्नायाः सावित्र्यष्टशतेन शिरोभिर्जुहुयात्पूता भवतीति विज्ञायते ॥१० व्यवाये तीर्थगमने धर्मेभ्यस्तु निवर्तते ।
चतस्रस्तु परित्याज्याः शिष्यगा गुरुगा च या ॥११ पतिघ्नी च विशेषेण जुङ्गितोपगता च या ॥१२ या ब्राह्मणी सुरापी न तां देवाः पतिलोकं नयन्ति । इहैव सा चरति क्षीणपुण्याऽप्सु लुग्भवति शुक्तिका वा ॥१३ ब्राह्मणक्षत्रियविशा स्त्रियः शूद्रेण संगताः । अप्रजाता विशुध्यन्ति प्रायश्चित्तेन नेतराः । प्रतिलोमं चरेयुस्ताः कृच्छ्र' चान्द्रायणोत्तरम् ॥१४ पतिव्रतानां गृहमेधिनीनां सत्यव्रतानां च शुचिव्रतानाम् । तासां तु लोकाः पतिभिः समाना गोमायुलोका व्यभिचारिणीनाम्
पतत्यधं शरीरस्य यस्य भार्या सुरां पिबेत् ।
पतितार्धशरीरस्य निष्कृति र्न विधीयते ॥ १६ ब्राह्मणश्चेदप्रेक्षापूर्वं ब्राह्मणदारानभिगच्छेदनिवृत्तधर्मकर्मणः
कृच्छ्रो निवृत्तधर्मकर्मणोऽतिकृच्छ्रः ||१७
एवं राजन्यवैश्ययोः ॥१८
गां चेद्वन्यात्तस्याश्चर्मणाऽऽद्रेण परिवेष्टितः षण्मासान् कुच्छ (च्छ) तप्तकृच्छ वा तिष्ठेत् ॥ १६ तयोर्विधिः ॥ २०