SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ १५२४ वसिष्ठस्मृतिः। [एकविंशो ॥ अथैकविंशोऽध्यायः ॥ ब्राह्मणीगमने शूद्रवैश्यक्षत्रियाणां प्रायश्चित्तवर्णनम् । शूद्रश्चेब्राह्मणीमभिगच्छेद्वीरणैर्वेष्टयित्वा शूद्रमग्नौ प्रास्येत् ॥१ ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां कृष्णं खरमारोप्य महापथमनुसंबाजयेत्पूता भवतीति विज्ञायते ॥२ वैश्यश्चेब्राह्मणीमधिगच्छेल्लोहितदर्भवेष्टयित्वा वैश्यमग्नौ प्रास्येत् ॥३ ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषाऽभ्यज्य नग्नां गौरं खरमारोप्य महापथमनुसंम्राजयेत्यूता भवतीति विज्ञायते ॥४ राजन्यश्चेद्ब्राह्मणीमभिगच्छेच्छरपत्रैर्वेष्टयित्वा राजन्यमग्नौ प्रास्येत् , ब्राह्मण्याः शिरसि वपनं कारयित्वा सर्पिषा समभ्यज्य नग्नां श्वेतं खरमारोप्य महापथमनुसंवाजयेत्पूता भवतीति विज्ञायते ॥५ एवं वैश्यो राजन्यायां शूद्रश्च राजन्यावैश्ययोः॥६ मनसा भर्तुरतिचारे त्रिरात्रं यावकं क्षीरोदनं वा भुञ्जानाऽधः शयीतोवं त्रिरात्रादप्सु निमग्नायाः सावित्र्यष्टशतेन शिरोभिर्जुहुयात्पूता भवतीति विज्ञायते ॥७ वाक्संबन्ध एतदेव मासं चरित्वोवं मासादप्सु निमग्नायाः सावित्र्याश्चतुरिष्टशतैः शिरोभिर्जुहुयात्पूता भवतीति विज्ञायते ॥८
SR No.032669
Book TitleSmruti Sandarbh Part 03
Original Sutra AuthorN/A
AuthorMaharshi
PublisherNag Publishers
Publication Year1988
Total Pages744
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy